(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.88. अध्यायः 088
Mahabharata - Udyoga Parva - Chapter Topics
दुर्योधनेन श्रीकृष्णस्य विदुरोदीरितभेदागोचरताङ्गीकरणम् ॥ 1 ॥ तथा हेतूपन्यासपूर्वकं कृष्णस्योपायनदाननिषेधनम् ॥ 2 ॥ भीष्मेण कृष्णस्य दुरवज्ञेयत्वकथनपूर्वकं तदुक्तस्य कर्तव्यत्वकथनम् ॥ 3 ॥ दुर्योधनेन स्वस्य कृष्णबन्धनाध्यवसायकथने धृतराष्ट्रेण तद्गर्हणम् ॥ 4 ॥ भीष्मेण दुर्योधनोपालम्भपूर्वकं सभातो निर्गमनम् ॥ 5 ॥
Mahabharata - Udyoga Parva - Chapter Text

दुर्योधन उवाच। 5-88-0x(3649)(34848)
यदाह विदुरः कृष्णे सर्वं तत्सत्यमच्युते।
अनुरक्तो ह्यसंहार्यः पार्थान्प्रति जनार्दनः ॥ 5-88-1(34849)
यत्तत्सत्कारसंयुक्तं देयं वसु जनार्दने ।
अनेकरूपं राजेन्द्र न तद्देयं कदाचन ॥ 5-88-2(34850)
देशः कालस्तथाऽयुक्तो न हि नार्हति केशवः ।
मंस्यत्यधोक्षजो राजन्भयादर्चति मामिति ॥ 5-88-3(34851)
अवमानश्च यत्र स्यात्क्षत्रियस्य विशांपते।
न तत्कुर्याद्बुधः कार्यमिति मे निश्चिता मतिः ॥ 5-88-4(34852)
स हि पूज्यतमो लोके कृष्णः पृथुललोचनः ।
त्रयाणामपि लोकानां विदितं मम सर्वथा ॥ 5-88-5(34853)
न तु तस्मै प्रदेयं स्यात्तथा कार्यगतिः प्रभो ।
विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात् ॥ 5-88-6(34854)
वैशम्पायन उवाच। 5-88-7x(3650)
तस्य तद्वचनं श्रुत्वा भीष्मः कुरुपितामहः।
वैचित्रवीर्यं राजानमिदं वचनमब्रवीत् ॥ 5-88-7(34855)
सत्कृतोऽसत्कृतो वाऽपि न क्रुध्येत जनार्दनः ।
`नावमंस्यत्यवज्ञातॄनवज्ञातोऽपि केशवः।'
नालमेनमवज्ञातुं नावज्ञेयो हि केशवः ॥ 5-88-8(34856)
यत्तु कार्यं महाबाहो मनसा कार्यतां गतम् ।
सर्वोपायैर्न तच्छक्यं केनचित्कर्तुमन्यथा ॥ 5-88-9(34857)
स यद्ब्रूयान्महाबाहुस्तत्कार्यमविशङ्कया ।
वासुदेवेन तीर्थेन क्षिप्रं संशाभ्य पाण्डवैः ॥ 5-88-10(34858)
धर्म्यमर्थ्यं च धर्मात्मा ध्रुवं वक्ता जनार्दनः।
तस्मिन्वाच्याः प्रिया वाचो भवता बान्धवैः सह ॥ 5-88-11(34859)
दुर्योधन उवाच। 5-88-12x(3651)
न पर्याप्तोस्मि यद्राजञ्श्रियं निष्केवलामहम् ।
तैः सहेमामुपाश्रीयां यावज्जीवं पितामह ॥ 5-88-12(34860)
इदं तु सुमहत्कार्यं श्रुणु मे यत्समर्थितम् ।
परायणं पाण्डवानां नियच्छामि जनार्दनम् ॥ 5-88-13(34861)
तस्मिन्बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा।
पाण्डवाश्च विधेया मे स च प्रातरिहैप्यति ॥ 5-88-14(34862)
अत्रोपायान्यथा सम्यङ्न बुद्ध्येत जनार्दनः ।
न चापायो भवेत्कश्चित्तद्भवान्प्रब्रवीतु मे ॥ 5-88-15(34863)
वैशम्पायन उवाच। 5-88-16x(3652)
तस्य तद्वचनं श्रुत्वा घोरं कृष्णेऽभिसंहितम्।
धृतराष्ट्रः सहामात्यो व्यथितो विमनाभवत् ॥ 5-88-16(34864)
ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद्वचः ।
मैवं वोचः प्रजापाल नैष धर्मः सनातनः ॥ 5-88-17(34865)
दूतश्च हि हृषीकेशः संबन्धी च प्रियश्च नः।
अपापः कौरवेयेषु स कथं बन्धमर्हति ॥ 5-88-18(34866)
भीष्म उवाच। 5-88-19x(3653)
परीतस्तव पुत्रोऽयं धृतराष्ट्र सुमन्दधीः ।
वृणोत्यनर्थं नैवार्थं याच्यमानः सुहृज्जनैः ॥ 5-88-19(34867)
इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम्।
वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे ॥ 5-88-20(34868)
कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः ।
तव पुत्रः सहामात्यः क्षणेन न भविष्यति ॥ 5-88-21(34869)
पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः ।
नोत्सहेऽनर्थसंयुक्ताः श्रोतुं वाचः कथंचन ॥ 5-88-22(34870)
इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान् ।
उत्थाय तस्मात्प्रातिष्ठद्भीष्मः सत्यपराक्रमः ॥ ॥ 5-88-23(34871)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि अष्टाशीतितमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-88-1 असंहार्यः हर्तुमशक्यः ॥ 5-88-3 देश इति। यद्यपि केशवोऽर्चामर्हत्येव तथापि अर्चायां देशः कालश्चायुक्त इत्यर्थः । तदेबाह मंस्यतीति ॥ 5-88-6 कार्यगतिः कर्तव्यरीतिः । अविग्रहात् आतिथ्यमात्रेण ॥ 5-88-8 नालं न पर्याप्तोऽसि ॥ 5-88-10 तीर्थेन अवतरणवर्त्मना । संशाम्य शान्तो भवः ॥ 5-88-12 नोपाश्रीयमित्यन्वयः। निष्केवलां कृत्स्नाम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.